कविता, कहानी, ग़ज़ल - शायरी, गीत -लोकगीत, दोहे, भजन, हास्य - व्यंग्य, भजन आरती चालीसा प्रार्थना और एवं अन्य रचनाएं साहित्य के भंडार से

श्री विष्णु स्तवनम् / Shri Vishnu Stavanam

मार्कण्डेय उवाच ।

नरं नृसिंहं नरनाथमच्युतं

प्रलम्बबाहुं कमलायतेक्षणम् ।

क्षितीश्वरैरर्चितपादपङ्कजं

नमामि विष्णुं पुरुषं पुरातनम् ॥ १ ॥


जगत्पतिं क्षीरसमुद्रमन्दिरं

तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ।

श्रियः पतिं श्रीधरमीशमीश्वरं

नमामि गोविन्दमनन्तवर्चसम् ॥ २ ॥


अजं वरेण्यं जनदुःखनाशनं

गुरुं पुराणं पुरुषोत्तमं प्रभुम् ।

सहस्रसूर्यद्युतिमन्तमच्युतं

नमामि भक्त्या हरिमाद्यमाधवम् ॥ ३ ॥


पुरस्कृतं पुण्यवतां परां गतिं

क्षितीश्वरं लोकपतिं प्रजापतिम् ।

परं पराणामपि कारणं हरिं

नमामि लोकत्रयकर्मसाक्षिणम् ॥ ४ ॥


भोगे त्वनन्तस्य पयोदधौ सुरः

पुरा हि शेते भगवाननादिकृत् ।

क्षीरोदवीचीकणिकाम्बुनोक्षितं

तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥ ५ ॥


यो नारसिंहं वपुरास्थितो महान्

सुरो मुरारिर्मधुकैटभान्तकृत् ।

समस्तलोकार्तिहरं हिरण्यकं

नमामि विष्णुं सततं नमामि तम् ॥ ६ ॥


अनन्तमव्यक्तमतीन्द्रियं विभुं

स्वे स्वे हि रूपे स्वयमेव संस्थितम् ।

योगेश्वरैरेव सदा नमस्कृतं

नमामि भक्त्या सततं जनार्दनम् ॥ ७ ॥


आनन्दमेकं विरजं विदात्मकं

वृन्दालयं योगिभिरेव पूजितम् ।

अणोरणीयांसमवृद्धिमक्षयं

नमामि भक्तप्रियमीश्वरं हरिम् ॥ ८ ॥


इति श्रीनरसिंहपुराणे दशमोऽध्याये मार्कण्डेय प्रोक्त श्रीविष्णु स्तवनम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


0 comments:

एक टिप्पणी भेजें

Popular Posts

Categories

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *