कविता, कहानी, ग़ज़ल - शायरी, गीत -लोकगीत, दोहे, भजन, हास्य - व्यंग्य, भजन आरती चालीसा प्रार्थना और एवं अन्य रचनाएं साहित्य के भंडार से

मधुराष्टकम् Madhurashtakam lyrics

मधुराष्टकम् 

Madhurashtakam lyrics  


अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्॥1॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥2॥

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।

नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम्॥3॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम्॥4॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।

वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥5॥

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।

सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम्॥6॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्।

दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम्॥7॥

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥8॥

॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥

0 comments:

एक टिप्पणी भेजें

Popular Posts

Categories

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *