कविता, कहानी, ग़ज़ल - शायरी, गीत -लोकगीत, दोहे, भजन, हास्य - व्यंग्य, भजन आरती चालीसा प्रार्थना और एवं अन्य रचनाएं साहित्य के भंडार से

सूर्याष्टकम् Shri Surya Ashtakam lyrics in Hindi

सूर्याष्टकम् ॥
आदिदेव नमस्तुभ्यं
प्रसीद मम भास्कर।

दिवाकर नमस्तुभ्यं
प्रभाकर नमोऽस्तुते॥1॥

सप्ताश्वरथमारूढं
प्रचण्डं कश्यपात्मजम्।

श्वेतपद्मधरं देवं तं
सूर्यं प्रणमाम्यहम्॥2॥

लोहितं रथमारूढं
सर्वलोकपितामहम्।

महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥3॥

त्रैगुण्यं च महाशूरं
ब्रह्माविष्णुमहेश्वरम्।

महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥4॥

बृंहितं तेजःपुञ्जं च
वायुमाकाशमेव च।

प्रभुं च सर्वलोकानां
तं सूर्यं प्रणमाम्यहम्॥5॥

बन्धूकपुष्पसङ्काशं
हारकुण्डलभूषितम्।

एकचक्रधरं देवं
तं सूर्यं प्रणमाम्यहम्॥6॥

तं सूर्यं जगत्कर्तारं
महातेजःप्रदीपनम्।

महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥7॥

तं सूर्यं जगतां नाथं
ज्ञानविज्ञानमोक्षदम्।

महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥8॥

॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्

0 comments:

एक टिप्पणी भेजें

Popular Posts

Categories

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *