कविता, कहानी, ग़ज़ल - शायरी, गीत -लोकगीत, दोहे, भजन, हास्य - व्यंग्य, भजन आरती चालीसा प्रार्थना और एवं अन्य रचनाएं साहित्य के भंडार से

अच्युताष्टकम् Achyutashtakam lyrics

अच्युताष्टकम् 

Achyutashtakam lyrics  


अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्।

श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे॥1॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्।

इंदिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं संदधे॥2॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रूक्मिणीरागिणे जानकीजानये।

वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नम:॥3॥

कृष्ण गोविन्दहे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे।

अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक॥4॥

राक्षसक्षोभित: सीतया शोभितो
दण्डकारण्यभूपुण्यताकारण:।

लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्य-
सम्पूजितो राघव: पातु माम्॥5॥

धेनुकारिष्टकानिष्टकृदद्वेषिहा
केशिहा कंसह्रद्वंशिकावादक:।

पूतनाकोपक: सूरजाखेलनो
बालगोपालक: पातु मां सर्वदा॥6॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।

वन्यया मालया शोभितोर:स्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयो:।

हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे॥8॥

अच्युतस्याष्टकं य: पठेदिष्टदं
प्रेमत: प्रत्यहं पूरुष: सस्पृहम्।

वृत्तत: सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम्॥9॥

॥ इति श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं सम्पूर्णम्

0 comments:

एक टिप्पणी भेजें

Popular Posts

Categories

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *