कविता, कहानी, ग़ज़ल - शायरी, गीत -लोकगीत, दोहे, भजन, हास्य - व्यंग्य, भजन आरती चालीसा प्रार्थना और एवं अन्य रचनाएं साहित्य के भंडार से

श्री दीनबन्ध्वष्टकम् Shri Dinabandhvashtakam lyrics

श्री दीनबन्ध्वष्टकम् 

Shri Dinabandhvashtakam lyrics  


यस्मादिदं जगदुदेति चतुर्मुखाद्यं
यस्मिन्नवस्थितमशेषमशेषमूले।

यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥

चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य।

पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥

येनोद्धृता वसुमती सलिले निमग्ना नग्ना
च पाण्डववधूः स्थगिता दुकूलैः।

संमोचितो जलचरस्य मुखाद्गजेन्द्रो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति।

भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥

गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते।

पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥

आकाररूपगुणयोगविवर्जितोऽपि मदद
भक्तानुकम्पननिमित्तगृहीतमूर्तिः।

यः सर्वगोऽपि कृतशेषशरीरशय्यो।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै
राराध्यते भवदवानलदाहशान्त्यै।

सर्वापराधमविचिन्त्य ममाखिलात्मा।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं
हित्वाखिलं कलिमलं भुवनं पुनाति।

दग्ध्वा ममाघमखिलं करुणेक्षणेन।
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥

दीनबन्ध्वष्टकं पुण्यं
ब्रह्मानन्देन भाषितम्।

यः पठेत् प्रयतो नित्यं
तस्य विष्णुः प्रसीदति॥9॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम्

0 comments:

एक टिप्पणी भेजें

Popular Posts

Categories

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *