श्री नारायणाष्टकम् Shri Narayanashtakam lyrics

श्री नारायणाष्टकम् 

Shri Narayanashtakam lyrics 


वात्सल्यादभयप्रदान-
समयादार्तिनिर्वापणा-

दौदार्यादघशोषणाद-
गणितश्रेयःपदप्रापणात्।

सेव्यः श्रीपतिरेक एव
जगतामेतेऽभवन्साक्षिणः

प्रह्लादश्च विभीषणश्च
करिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥

प्रह्लादास्ति यदीश्वरो वद
हरिः सर्वत्र मे दर्शय

स्तम्भे चैवमिति
ब्रुवन्तमसुरं तत्राविरासीद्धरिः।

वक्षस्तस्य विदारयन्निजन-
खैर्वात्सल्यमापाद-

यन्नार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥2॥

श्रीरामात्र विभीषणोऽयमनघो
रक्षोभयादागतः

सुग्रीवानय पालयैनमधुना
पौलस्त्यमेवागतम्।

इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो

दत्तवानार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥3॥

नक्रग्रस्तपदं समुद्धतकरं
ब्रह्मादयो भो सुराः

पाल्यन्तामिति दीनवाक्यकरिणं
देवेष्वशक्तेषु यः।

मा भैषीरिति यस्य
नक्रहनने चक्रायुधः श्रीधर।

आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥4॥

भो कृष्णाच्युत भो कृपालय
हरे भो पाण्डवानां सखे

क्वासि क्वासि सुयोधनादपहृतां
भो रक्ष मामातुराम्।

इत्युक्तोऽक्षयवस्त्रसंभृततनुं
योऽपालयद्द्रौपदी-

मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥5॥

यत्पादाब्जनखोदकं त्रिजगतां
पापौघविध्वंसनं

यन्नामामृतपूरकं च
पिबतां संसारसन्तारकम्।

पाषाणोऽपि यदङ्घ्रिपद्मरजसा
शापान्मुनेर्मोचित।

आर्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥6॥

पित्रा भ्रातरमुत्तमासनगतं
चौत्तानपादिध्रुवो दृष्ट्वा

तत्सममारुरुक्षुरधृतो
मात्रावमानं गतः।

यं गत्वा शरणं यदाप
तपसा हेमाद्रिसिंहासन-

मार्तत्राणपरायणः स
भगवान्नारायणो मे गतिः॥7॥

आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः।

सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति॥8॥

॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

कुमार विश्वास की कविताएँ | Kumar Vishwas Kavita – कोई दीवाना कहता है